|| हनुमत्स्तोत्रम् ||
श्रीगणेशाय नमः|
नमो हनुमते तुभ्यं नमो मारुतसूनवे|
नमः श्रीरामभक्ताय श्यामास्याय च ते नमः||१||
नमो वानरवीराय सुग्रीवसख्यकारिणे|
लङ्काविदाहनार्थाय हेलासागरतारिणे||२||
सीताशोकविनाशाय राममुद्राधराय च|
रावणान्तकुलच्छेदकारिणे ते नमो नमः||३||
मेघनादमखध्वंसकारिणे ते नमो नमः|
अशोकवनविध्वंसकारिणे भयहारिणे||४||
वायुपुत्राय वीराय आकाशोदरगामिने|
वनपालशिरश्छेदलङ्काप्रासादभञ्जिने||५||
ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे|
सौमित्रिजयदात्रे च रामदूताय ते नमः||६||
अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे|
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने||७||
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः|
ऋक्षवानरवीरौघप्राणदाय नमो नमः||८||
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः|
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः||९||
महाभयरिपुघ्नाय भक्तत्राणैककारिणे|
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे||१०||
पयःपाषाणतरणकारणाय नमो नमः|
बालार्कमण्डलग्रासकारिणे भवतारिणे||११||
नखायुधाय भीमाय दन्तायुधधराय च|
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे||१२||
प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने|
करालशैलशस्त्राय द्रुमशस्त्राय ते नमः||१३||
बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च|
विहङ्गमाय सर्वाय वज्रदेहाय ते नमः||१४||
कौपिनवाससे तुभ्यं रामभक्तिरताय च|
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने||१५||
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च|
स्वाम्याज्ञापार्थसङ्ग्रामसङ्ख्ये सञ्जयधारिणे||१६||
भक्तान्तदिव्यवादेषु सङ्ग्रामे जयदायिने|
किल्किलाबुबुकोच्चारघोरशब्दकराय च||१७||
सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे|
सदा वनफलाहारसन्तृप्ताय विशेषतः||१८||
महार्णवशिलाबद्धसेतुबन्धाय ते नमः|
वादे विवादे सङ्ग्रामे भये घोरे महावने||१९||
सिंहव्याघ्रादिचौरेभ्यः स्तोत्रपाठाद् भयं न हि|
दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे||२०||
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च|
जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे||२१||
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः|
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः||२२||
सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम्|
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा||२३||
विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम्|
ये पठिष्यन्ति भक्त्या वै सिद्ध्यस्तत्करे स्थिताः||२४||
इति श्रीसुदर्शनसंहितायां विभीषणगरुडसंवादे
विभीषणकृतं हनुमत्स्तोत्रं सम्पूर्णम्||
