||  लक्ष्मीकवचम्  || 

नारद उवाच

आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ|

महालक्ष्म्याश्र्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन||१||

नारायण उवाच 

पुष्करे च तपस्तप्त्वा विरराम सुरेश्‍वरः|

आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम्||२||

तमुवाच हृषीकेशो वरं वृणु यथेप्सितम्|

स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा||३||

वरं दत्वा हृषीकेशः प्रवक्तुमुपचक्रमे| 

हितं सत्यं च सारं च परिणामसुखावहम्||४||

श्रीमधुसुदन उवाच 

गृहाण कवचं शक्र सर्वदुःखविनाशनम्|

परमैश्‍वर्यजनकं सर्वशत्रुविमर्दनम्||५||

ब्रह्मणे च पुरा दत्तं संसारे च जलप्लुते|

यद् धृत्वा जगतां श्रेष्ठः सर्वैश्‍वर्ययुतो विधिः||६||

बभूवुर्मनवः सर्वे सर्वैश्‍वर्ययुता यतः|

सर्वैश्‍वर्यप्रदस्यास्य कवचस्य ऋषिर्विधिः||७||

पङ्क्तिश्छश्र्च सा देवी स्वयं पद्मालया सुर|

सिद्धैश्‍वर्यजपेष्वेव विनियोगः प्रकीर्तितः||८||

यद् धृत्वा कवचं लोकः सर्वत्र विजयी भवेत्|

मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया||९||    

नासिकां पातु मे लक्ष्मीः कमला पातु लोचनम्| 

केशान् केशवकान्ता च कपालं कमलालया||१०||

जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा|

ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदावतु||११||

ॐ श्रीं पद्मालयायै स्वाहा वक्षः सदावतु|

पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः||१२||

ॐ हृीं श्रीं लक्ष्म्यै नमः पादौ पातु मे संततं चिरम्|

ॐ हृीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम्||१३||

ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा|

ॐ हृीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः||१४||

इति ते कथितं वत्स सर्वसम्पत्करं परम्|

सर्वैश्‍वर्यप्रदं नाम कवचं परमाद्भुतम्||१५||

गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः|

कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत्||१६||   

महालक्ष्मीर्गृहं तस्य न जहाति कदाचन|

तस्य छायेव सततं सा च जन्मनि जन्मनि||१७||

इदं कवचमज्ञात्वा भजेल्लक्ष्मीं सुमन्दधीः|

शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः||१८||

|| इति श्रीब्रह्मवैवर्ते इन्द्रं प्रति हरिणोपदिष्टं लक्ष्मीकवचं सम्पूर्णम्||