|| प्रात:स्मरण ||
प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम्|
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड माखण्डलादिसुरनायकवृन्दवन्द्यम्|।1।।
प्रातर्नमामि चतुराननवन्द्यमान मिच्छानुकूलमखिलं च वरं ददानम्|
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयो: शिवाय|।2।।
प्रातर्भजाम्यभयदं खलु भक्तशोकदावानलं गणविभुं वरकुण्जरास्यम्|
अज्ञानकाननविनाशनहव्यवाह-मुत्साहवर्धनमहं सुतमीश्वरस्य|।3।।
श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम्।।
प्रातरुत्थाय सततं य: पठेत्प्रयत: पुमान्।।
।।इति श्रीगणेशप्रात: स्मरणस्तोत्रं सम्पूर्णम्।।
