गणेशाय नमः


 

ॐ श्री गणेशाय नमः

ॐ श्री महागणपतये नमः


वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ|

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा||


नेत्री दोन हिरे प्रकाश पसरे, अत्यंत ते साजिरे|

माथा शेंदूर झरे वरी बरे, दुर्वांकुरांचे तुरे||

माझे चित्त विरे मनोरथ पुरे, देखोनि चिंता हरे|

गोसावीसुत वासुदेव कवी रे, त्या मोरयाला स्मरे||


प्रारंभी विनती करू गणपति विद्यादयासागरा|

अज्ञानत्व हरूनि बुद्धीमति दे आराध्य मोरेश्‍वरा||

चिंता, क्लेश, दारिद्रय, दुःख अवघे देशांतरा पाठवी|

हेरंबा, गणनायका, गजमुखा भक्ता बहु तोषवी||


कराग्रे वसते लक्ष्मी करमध्ये सरस्वती|

करमूले तु गोविन्दः प्रभाते करदर्शनं||

समुद्रेवसने देवी पर्वतेस्तनमण्ड्ले|

विष्णुपत्नि नमस्तुभ्यम पादस्पर्शम क्षमस्व मे||


नमो देव्यै महादेव्यै शिवायै सततं नम:।

नम: प्रकृत्यै भदायै नियता: प्रणता: स्मताम्।।


गंगा च यमुने चैव गोदावरी सरस्वती|

नर्मदे सिंधु कावेरी जलेस्मिन संनिधिम कुरु||


कैलासराणा शिवचंद्रमौळी| 

फणींद्र माथां मुकुटी झळाळी|

कारुण्यसिंधू भवदुःखहारी| 

तुजवीण शंभो मज कोण तारी||१||


सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।

उज्जयिन्यां महाकालम्ॐकारममलेश्‍वरम्||१||

परल्यां वैद्यनाथं च डाकिन्यांम् भीमाशंकरम्।

सेतुबंधे तु रामेशं नागेशं दारुकावने||२||

वाराणस्यां तु विश्‍वेशं त्र्यंबकं गौतमीतटे।

हिमालये तु केदारम् घृष्णेशम् च शिवालये||३||

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।

सप्तजन्मकृतं पापं स्मरणेन विनश्यति||४||


शांताकारं भुजगशयनं पद्मनाभं सुरेशम् , 

विश्‍वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्|

 लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् , 

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्||||


वसुदॆव सुतं दॆवं कंस चाणूर मर्दनम्|

 दॆवकी परमानन्दं कृष्णं वन्दॆ जगद्गुरुम्||१|| 


महायोगपीठे तटे भीमरथ्या

वरं पुण्डरीकाय दातुं मुनीन्द्रैः|

समागत्य तिष्ठन्तमानन्दकन्दं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्||१||


मनोजवं मारुततुल्यवेगं

जितेन्द्रियं बुद्धिमतां वरिष्ठम्|

वातात्मजं वानरयूथमुख्यं

श्रीरामदूतं शरणं प्रपद्ये|


अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं |

शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा||

एतानि नव नामानि नागानाम च महात्मनं |

सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः|

तस्य विषभयं नास्ति सर्वत्र विजयी भवेत||


जपाकुसुमसंकाशं काश्यपेयं महद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥


आदित्यं प्रथमं नाम द्वितीयं तु दिवाकर:।

तृतीयं भास्कर: प्रोक्तं चतुर्थं तु प्रभाकर:।।1।।

 पंचमं तु सहस्त्रांशु षष्ठं त्रैलोक्यलोचन:।

सप्तमं हरिदश्‍वश्य अष्टमं च विभावसु:।।2।।

 नवमं दिनकर: प्रोक्तों दशमं द्वादशात्मक:।

एकादशं त्रयोमूर्ति द्वादशं सूर्य एव च।।3।।


गुरूरब्रह्मा गुरूरविष्णु गुरूर्देवो महेश्‍वरा,|

गुरू: साक्षात परब्रह्म तस्मै श्री गुरवे नमः||


त्वमेव माता च पिता त्वमेव|

त्वमेव बन्धुश्च सखा त्वमेव|

त्वमेव विद्या द्रविणम् त्वमेव|

त्वमेव सर्वम् मम देव देव||